पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकु॑ः सावि॒त्रो ह॒ᳪसो वात॑स्य ना॒क्रो मक॑रः कुली॒पय॒स्तेऽकू॑पारस्य ह्रि॒यै शल्य॑कः
puruṣamṛgáś candrámaso godhā́ kā́lakā dārvāghā́ṭas te vanaspátīnām kṛkavā́kuḥ sāvitró haṃsó vā́tasya nā́kro mákaraḥ kulī́payas te ’kūpā́rasya hriyái śalyákaḥ
Der Puruṣa‑mṛga (Mensch‑Tier) gehört dem Mond; die Godhā (Leguan), der Kālaka, der Dārvāghāṭa (Holzschläger) — (Opfergaben) für die Herren des Waldes. Der Kṛkavāku gehört Savitṛ; der Haṃsa (Gans) gehört dem Wind. Der Nākra (Krokodil), der Makara, der Kulīpaya — (Opfergaben) für Akūpāra; für Hrī (Scham/Anmut) ist der Śalyaka.
पुरुषमृगः । चन्द्रमसः । गोधा । कालका । दार्वाघाटः । ते । वनस्पतीनाम् । कृकवाकुः । सावित्रः । हंसः । वातस्य । नाक्रः । मकरः । कुलीपयः । ते । अकूपारस्य । ह्रियै । शल्यकः ।