एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत् ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत् प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीत् स॒प्तभि॑रस्तुवत सप्त ऋ॒षयो॑ऽसृज्यन्त धा॒ताऽधि॑पतिरासीत्
ékayā ’stuvat prajā́ adhīyanta prajā́patir ádhipatir āsīt tisṛ́bhir astuvat bráhmā ’sṛjyata bráhmaṇas-pátir ádhipatir āsīt páñcabhīr astuvat bhūtā́ny asṛjyanta bhūtā́nāṃ pátir ádhipatir āsīt saptábhīr astuvat saptá ṛ́ṣayo ’sṛjyanta dhātā́ ’dhipatir āsīt
Mit einem (Lob) pries er: die Geschöpfe wurden hervorgebracht; Prajāpati war der Oberherr. Mit dreien pries er: Brahman wurde geschaffen; Brahmaṇaspati war der Oberherr. Mit fünfen pries er: die Wesen (bhūtāni) wurden geschaffen; der Herr der Wesen war der Oberherr. Mit sieben pries er: die sieben Ṛṣis wurden geschaffen; Dhātṛ war der Oberherr.
एकया । अस्तुवत । प्रजाः । अधीयन्त । प्रजापतिः । अधिपतिः । आसीत् । तिसृभिः । अस्तुवत । ब्रह्म । असृज्यत । ब्रह्मणः-पतिः । अधिपतिः । आसीत् । पञ्चभिः । अस्तुवत । भूतानि । असृज्यन्त । भूतानाम् । पतिः । अधिपतिः । आसीत् । सप्तभिः । अस्तुवत । सप्त । ऋषयः । असृज्यन्त । धाता । अधिपतिः । आसीत् ।