वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीम् । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ । वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
viśvá-karmā tvā sādayatv antárikṣasya pṛṣṭhé jyótiṣmatīm | víśvasmai prāṇā́yāpānā́ya vyānā́ya víśvaṃ jyótir yaccha | vāyúṣ te ’dhipátis táyā devátayā ’ṅgirasvád dhruvā́ sīda
Viśvakarman lasse dich Platz nehmen, lichtvoll, auf dem Rücken des Antarikṣa, des Zwischenraums. Allen Wesen—für Prāṇa, Apāna und Vyāna—gewähre du das ganze Licht. Vāyu ist dein Herr; mit jener Gottheit, nach der Weise der Aṅgirases, sitze fest, o Dhruvā.
वि॒श्वक॑र्मा । त्वा । सादयतु । अ॒न्तरि॑क्षस्य । पृ॒ष्ठे । ज्योति॑ष्मतीम् । विश्व॑स्मै । प्रा॒णाय॑ । अ॒पा॒नाय॑ । व्या॒नाय॑ । विश्व॑म् । ज्योति॑ः । यच्छ । वा॒युः । ते । अ॒धि॑पतिः । तया॑ । दे॒वत॑या । अङ्गिर॒स्वत् । ध्रु॒वा । सी॑द