या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पतीँ॒१ रनु॑ । ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्य॑: स॒र्पेभ्यो॒ नम॑:
yā́ íṣavo yātudhā́nānāṃ yé vā vanaspátīṃr ánu | yé vāvaṭéṣu śérate tébhyaḥ sárpebhyo námaḥ ||
Jene Geschosse der Yātudhānas und jene (Schlangen), die den Bäumen entlang folgen, und jene, die in Gruben liegen – jenen Schlangen sei Verehrung.
याः । इषवः । यातुधानानाम् । ये । वा । वनस्पतीन् । अनु । ये । वा । अवटेषु । शेरते । तेभ्यः । सर्पेभ्यः । नमः ।