यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म् । बृ॒हज्ज्योति॑: करिष्य॒तः स॑वि॒ता प्र सु॑वाति॒ तान्
yuktvā́ya savitā́ devā́n svaryató dhiyā́ dívam | bṛháj jyótiḥ kariṣyatáḥ savitā́ prá suvāti tā́n
Nachdem Savitar alle Götter, himmelwärts strebend, durch Einsicht zum Himmel angespannt hat, um das große Licht zu wirken, treibt Savitar sie hervor.
यु॒क्त्वाय॑ । स॒वि॒ता । दे॒वान् । स्व॑र्-य॒तः । धि॒या । दिव॑म् । बृ॒हत् । ज्योतिः॑ । क॒रि॒ष्य॒तः । स॒वि॒ता । प्र । सु॒वा॒ति॒ । तान्