उत्क्रा॑म मह॒ते सौ॑भगाया॒स्मादा॒स्थाना॑द् द्रविणो॒दा वा॑जिन् । व॒यᳪ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं खन॑न्त उ॒पस्थे॑ अस्याः
utkrā́ma mahaté saúbhagāyāsmā́d āsthā́nād draviṇodā́ vā́jin | vayaᳪ syā́ma sumatáu pṛthivyā́ agníṃ khananta upásthe asyāḥ
Tritt hervor zu großem Glück aus diesem deinem Standort, o Reichtumsspender, o Vājin. Mögen wir im guten Rat der Erde sein, während wir Agni in ihrem Schoß ausgraben.
उत्-क्राम । मह॒ते । सौ॑-भगाय । अ॒स्मात् । आ॒-स्थाना॑त् । द्रविणः-दा । वा॑जिन् । व॒यम् । स्या॑म । सु॒-मतौ । पृ॑थि॒व्याः । अ॒ग्निम् । खन॑न्तः । उ॒पस्थे॑ । अ॒स्याः