इ॒मं दे॑वा असप॒त्नᳪ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यै॑ष्ठ्याय मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑ । इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रमस्यै वि॒श ए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ᳪराजा॑
imáṃ devā asapátnaṃ suvadhvaṃ mahaté kṣatrā́ya mahaté jyáiṣṭhyāya mahaté jā́narājyāyéndrasya indriyā́ya | imám amúṣya putrám amúṣyai putrám asyai víśa eṣá vo ’mī rājā sómo ’smā́kaṃ brāhmaṇā́nāṃ rājā́
Diesen Mann, o Götter, macht ohne Nebenbuhler; lasst ihn gedeihen zu großer Herrschaft, zu großer Vorrangstellung, zu großem Königtum über das Volk, zu Indras herrscherlicher Kraft. Dies ist der Sohn des und des, der Sohn dieser Mutter — den Sippen gegeben: er ist euer König. König Soma — er ist der König von uns Brahmanen.
इमम् । देवाः । असपत्नम् । सुवध्वम् । महते । क्षत्राय । महते । ज्यैष्ठ्याय । महते । जान-राज्याय । इन्द्रस्य । इन्द्रियाय । इमम् । अमुष्य । पुत्रम् । अमुष्यै । पुत्रम् । अस्यै । विशः । एषः । वः । अमी । राजा । सोमः । अस्माकम् । ब्राह्मणानाम् । राजा