Naadbindu
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् । स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः ॥
तत् । तु । जन्म-अन्तर-अभावात् । पुंसः । न । एव । अस्ति । कर्हिचित् । स्वप्न-देहः । यथा । अध्यस्तः । तथा । एव । अयम् । हि । देहकः ॥
tat tu janmāntarābhāvāt puṃso naivāsti karhicit | svapnadeho yathādhyastas tathaivāyaṃ hi dehakaḥ ||
অন্য জন্মের অভাবের কারণে সেই (প্রারব্ধ নামে কথিত) বস্তু মানুষের জন্য কখনওই নেই। যেমন স্বপ্নদেহ আরোপিত, তেমনি এই দেহও আরোপিত।
But that (so-called prārabdha) does not ever exist for a person, because there is no other birth (in truth). As the dream-body is superimposed, so indeed is this body here.