Katharudra
स प्रजापतिर् अब्रवीत्—सशिखान् केशान् निष्कृत्य विसृज्य यज्ञोपवीतं निष्कृत्य पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओङ्कारस् त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता त्वं प्रतिष्ठाऽसीति वदेत् । अथ पुत्रो वदति—अहं ब्रह्माहं यज्ञोऽहं वषट्कारोऽहम् ओङ्कारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं त्वष्टाहं प्रतिष्ठास्मीति । तान्य् एतान्य् अनुव्रजन् आश्रुम् आपातयेत् । यद् अश्रुम् आपातयेत् प्रजां विच्छिन्द्यात् । प्रदक्षिणम् आवृत्त्य एतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति ॥२॥
सः । प्रजापतिः । अब्रवीत् । स-शिखान् । केशान् । निष्कृत्य । विसृज्य । यज्ञोपवीतम् । निष्कृत्य । पुत्रम् । दृष्ट्वा । त्वम् । ब्रह्मा । त्वम् । यज्ञः । त्वम् । वषट्कारः । त्वम् । ओङ्कारः । त्वम् । स्वाहा । त्वम् । स्वधा । त्वम् । धाता । त्वम् । विधाता । त्वम् । प्रतिष्ठा । असि । इति । वदेत् । अथ । पुत्रः । वदति । अहम् । ब्रह्मा । अहम् । यज्ञः । अहम् । वषट्कारः । अहम् । ओङ्कारः । अहम् । स्वाहा । अहम् । स्वधा । अहम् । धाता । अहम् । विधाता । अहम् । त्वष्टा । अहम् । प्रतिष्ठा । अस्मि । इति । तानि । एतानि । अनुव्रजन् । अश्रुम् । आपातयेत् । यत् । अश्रुम् । आपातयेत् । प्रजाम् । विच्छिन्द्यात् । प्रदक्षिणम् । आवृत्त्य । एतत्-च । एतत्-च । अनवेक्षमाणाः । प्रत्यायन्ति ॥२॥
sa prajāpatir abravīt—saśikhān keśān niṣkṛtya visṛjya yajñopavītaṃ niṣkṛtya putraṃ dṛṣṭvā tvaṃ brahmā tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāras tvaṃ svāhā tvaṃ svadhā tvaṃ dhātā tvaṃ vidhātā tvaṃ pratiṣṭhā’sīti vadet | atha putro vadati—ahaṃ brahmāhaṃ yajño’haṃ vaṣaṭkāro’ham oṅkāro’haṃ svāhāhaṃ svadhāhaṃ dhātāhaṃ vidhātāhaṃ tvaṣṭāhaṃ pratiṣṭhāsmīti | tāny etāny anuvrajan āśrum āpātayet | yad aśrum āpātayet prajāṃ vicchindyāt | pradakṣiṇam āvṛttya etaccaitaccānavekṣamāṇāḥ pratyāyanti ||2||
প্রজাপতি বললেন—শিখাসহ কেশ কেটে ত্যাগ কর এবং যজ্ঞোপবীতও অপসারণ কর। তারপর পুত্রকে দেখে বলবে—‘তুমি ব্রহ্মা, তুমি যজ্ঞ, তুমি বষট্কার, তুমি ওঙ্কার, তুমি স্বাহা, তুমি স্বধা, তুমি ধাতা, তুমি বিধাতা, তুমি প্রতিষ্ঠা।’ তখন পুত্র বলবে—‘আমি ব্রহ্মা, আমি যজ্ঞ, আমি বষট্কার, আমি ওঙ্কার, আমি স্বাহা, আমি স্বধা, আমি ধাতা, আমি বিধাতা, আমি ত্বষ্টা, আমি প্রতিষ্ঠা।’ এই বাক্যগুলির অনুসরণে এক অশ্রুপাত করবে; অশ্রুপাত যদি বিধিবহির্ভূত হয় তবে প্রজাসন্ততি ছিন্ন হয়। ডানদিকে প্রদক্ষিণ করে, এদিক-ওদিক পিছনে না তাকিয়ে তারা প্রত্যাবর্তন করে। ॥২॥
Prajāpati said: “Having removed (cut off) the hair with the topknot and having cast it away, and having removed the sacred thread, on seeing the son one should say: ‘You are Brahmā; you are the sacrifice; you are the vaṣaṭ-call; you are the Oṃkāra; you are svāhā; you are svadhā; you are the establisher (dhātṛ); you are the ordainer (vidhātṛ); you are the foundation.’ Then the son says: ‘I am Brahmā; I am the sacrifice; I am the vaṣaṭ-call; I am the Oṃkāra; I am svāhā; I am svadhā; I am the establisher; I am the ordainer; I am Tvaṣṭṛ; I am the foundation.’ Following these, he should let a tear fall. If he were to let a tear fall (in the wrong manner), he would cut off progeny. Having circumambulated to the right, and not looking back at this and that, they return.