इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नू॑: स॒नाद्राज॑भ्यो जु॒ह्वा॒ जुहोमि । शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अᳪश॑:
imā́ gíra ādityébhyo ghṛtásnūḥ sanā́drājabhyo juhvā́ juhomi | śṛṇótu mitró aryamā́ bhágo no’s tुविजātó váruṇo dákṣo áṃśaḥ
ঘৃতধারা-যুক্ত এই বাণী আমি জুহূ দ্বারা আদিত্যদের—চিরন্তন রাজাদের—উদ্দেশে আহুতি দিই। মিত্র শুনুন, আর্যমান শুনুন, এবং আমাদের জন্য ভগ; (শুনুন) মহাজাত বরুণ, এবং দক্ষ ও অংশ।
इमाः । गिरः । आदित्येभ्यः । घृत-स्नूः । सनात्-राजभ्यः । जुह्वा । जुहोमि । शृणोतु । मित्रः । अर्यमा । भगः । नः । तुवि-जातः । वरुणः । दक्षः । अंशः