सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् । मै॑नां॒ तप॑सा॒ मार्चिषा॒ऽभि शो॑चीर॒न्तर॑स्याᳪ शु॒क्रज्यो॑ति॒र्वि भा॑हि
sī́da tvaṃ mātúr asyā́ upásthe víśvāny agne vayúnāni vidvā́n | mā́ināṃ tápasā mā́rciṣā́ ’bhí śocīr antárasyāṃ śukrájyótir ví bhāhi ||
হে অগ্নে, এই তোমার মাতার উপস্থে বস; তুমি সকল বয়ুন (বিধি-নিয়ম) অবগত। তাকে তাপে বা তোমার অর্চিষায় দগ্ধ কোরো না; তার অন্তরে শুদ্ধ শ্বেত-জ্যোতি হয়ে নির্মল আলোয় দীপ্ত হও।
सीद । त्वम् । मातुः । अस्याः । उपस्थे । विश्वानि । अग्ने । वयुनानि । विद्वान् । मा । एनाम् । तपसा । मा । अर्चिषा । अभि । शोचीः । अन्तरस्याम् । शुक्रम् । ज्योतिः । वि । भाहि