सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात् । मृ॒त्योः पा॒ह्योजो॑ऽसि॒ सहो॑ऽस्य॒मृत॑मसि
sómasya tvíṣir asi távaiva me tvíṣir bhūyāt | mṛtyóḥ pāhy ójo ’si sáho ’sy amṛ́tam asi
তুমি সোমের তেজ (ত্বিষি); সেই তেজই আমারও হোক। মৃত্যুর থেকে আমাকে রক্ষা কর; তুমি ওজ, তুমি সহ (বিজয়ী শক্তি), তুমি অমৃত (অমরত্ব)।
सोमस्य । त्विषिः । असि । तव । एव । मे । त्विषिः । भूयात् । मृत्योः । पाहि । ओजः । असि । सहः । असि । अमृतम् । असि