वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तवि॑ᳪशतिः । ते अग्रेऽश्व॑मयुञ्जँ॒स्ते अ॑स्मिञ्ज॒वमा द॑धुः
vā́to vā́ máno vā gandharvā́ḥ saptáviṃśatiḥ | té ágre ’śvám ayuñjan té asmíñ javám ā́ dadhúḥ
বা বায়ু, বা মন, বা গন্ধৰ্বগণ—সাত-আৰু-বিছজন—আদিতে অশ্বক যোজনা কৰিলে; আৰু এই অশ্বত তেঁওলোকে জৱ (দ্ৰুততা) স্থাপন কৰিলে।
वातः॑ । वा॒ । मनः॑ । वा॒ । ग॒न्ध॒र्वाः । स॒प्तवि॑ᳪशतिः । ते । अ॒ग्रे । अश्व॑म् । अ॒यु॒ञ्ज॒न् । ते । अ॒स्मिन् । ज॒वम् । आ । द॒धुः