वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शᳪ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षंᳪ रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शᳪ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षमादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शᳪ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑ष॒मदि॑ति॒: षोड॑शाक्षरेण षोड॒शᳪ स्तोम॒मुद॑जय॒त्तमुज्जे॑षं प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शᳪ स्तोम॒मुद॑जय॒त्तमुज्जे॑षम्
vásavas trayódaśākṣareṇa trayódaśaṃ stómam úd ajayan tám ujjéṣaṃ rudrā́ś cáturdaśākṣareṇa cáturdaśaṃ stómam úd ajayan tám ujjéṣam ādityā́ḥ páñcadaśākṣareṇa páñcadaśaṃ stómam úd ajayan tám ujjéṣam áditiḥ ṣóḍaśākṣareṇa ṣóḍaśaṃ stómam úd ajayat tám ujjéṣaṃ prajā́patiḥ saptádaśākṣareṇa saptádaśaṃ stómam úd ajayat tám ujjéṣam
ৱসুসকল ত্ৰয়োদশাক্ষৰে ত্ৰয়োদশ স্তোম জয় কৰিলে; মই তাক জয় কৰোঁ। ৰুদ্ৰাসকল চতুৰ্দশাক্ষৰে চতুৰ্দশ স্তোম জয় কৰিলে; মই তাক জয় কৰোঁ। আদিত্যাসকল পঞ্চদশাক্ষৰে পঞ্চদশ স্তোম জয় কৰিলে; মই তাক জয় কৰোঁ। অদিতিয়ে ষোড়শাক্ষৰে ষোড়শ স্তোম জয় কৰিলে; মই তাক জয় কৰোঁ। প্ৰজাপতিয়ে সপ্তদশাক্ষৰে সপ্তদশ স্তোম জয় কৰিলে; মই তাক জয় কৰোঁ।
वस॑वः । त्रयोदश-अ॑क्षरेण । त्रयोद॒शम् । स्तोम॑म् । उद॑जयन् । तम् । उ॒ज्जे॑षम् । रु॒द्राः । चतुर्दश-अ॑क्षरेण । चतुर्द॒शम् । स्तोम॑म् । उद॑जयन् । तम् । उ॒ज्जे॑षम् । आ॒दि॒त्याः । पञ्चदश-अ॑क्षरेण । पञ्चद॒शम् । स्तोम॑म् । उद॑जयन् । तम् । उ॒ज्जे॑षम् । अदि॑तिः । षोडश-अ॑क्षरेण । षोड॒शम् । स्तोम॑म् । उद॑जयत् । तम् । उ॒ज्जे॑षम् । प्र॒जाप॑तिः । सप्तदश-अ॑क्षरेण । सप्तद॒शम् । स्तोम॑म् । उद॑जयत् । तम् । उ॒ज्जे॑षम् ।