चि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: । तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम्
cit-pátir mā punātu vāk-pátir mā punātu devó mā savitā́ punātv ácchidreṇa pavítreṇa sū́ryasya raśmíbhīḥ | tásya te pavitra-pate pavitra-pū́tasya yát-kā́maḥ púne tác chakeyam
চিত্পতি মোক পবিত্ৰ কৰক; বাক্পতি মোক পবিত্ৰ কৰক; দেৱ সৱিতা মোক নিৰ্দোষ পবিত্ৰকৰ দ্বাৰা, সূৰ্যৰ ৰশ্মিসকলৰ সৈতে পবিত্ৰ কৰক। হে পবিত্ৰৰ অধিপতি, সেই পবিত্ৰকৰ দ্বাৰা পবিত্ৰ হোৱা মই, যি কামনা (ধৰ্মসঙ্গত) আছে, সেয়া সম্পাদন কৰিবলৈ সক্ষম হওঁ।
चित्-पतिः । मा । पुनातु । वाक्-पतिः । मा । पुनातु । देवः । मा । सविता । पुनातु । अच्छिद्रेण । पवित्रेण । सूर्यस्य । रश्मिभिः । तस्य । ते । पवित्र-पते । पवित्र-पूतस्य । यत् । कामः । पुने । तत् । शकेयम् ।