अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः । सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ᳪ रु॒द्रस्त्वा व॑र्त्तयतु स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑
ánu tvā mātā́ manyatām ánu pitā́nu bhrā́tā sagárbhyo'nu sákhā sayū́thyaḥ | sā́ devi devám ácchéhī́ndrāya sómaṃ rudrás tvā varttayatu svastí sómasakhā púnar éhi
অনু ত্বা মাতা মন্যতাম্, অনু পিতা; অনু ভ্রাতা সগর্ভ্যঃ, অনু সখা সযূথ্যঃ। হে দেবি, দেবম্ অচ্ছ এহি—ইন্দ্ৰায় সোমম্। রুদ্রঃ ত্বা বর্ত্তয়তু; স্বস্তি, হে সোমসখা, পুনৰ এহি।
अनु । त्वा । माता । मन्यताम् । अनु । पिता । अनु । भ्राता । स-गर्भ्यः । अनु । सखा । स-यूथ्यः । सा । देवि । देवम् । अच्छ । इहि । इन्द्राय । सोमम् । रुद्रः । त्वा । वर्तयतु । स्वस्ति । सोम-सखा । पुनः । एहि ।