न ते॑ दू॒रे प॑र॒मा चि॒द्रजा॒ᳪस्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् । स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अग्नौ
ná te dūré paramā́ cid rájāṃsy ásyā́ tu prá yāhi harivo háribhyām | sthiráya vṛ́ṣṇe sávānā kṛtémā́ yuktā́ grā́vāṇaḥ samidhāné agnáu ||
তোমাৰ পৰা দূৰত নহয়—সৰ্বোচ্চ লোকসমূহো; হে হৰিব, তোমাৰ দুটা হৰি অশ্বসহ আগবাঢ়ি আহা। স্থিৰ, বীৰ্যবানজনৰ বাবে এই সোম-সৱনসমূহ সাজু কৰা হৈছে; অগ্নি প্ৰজ্বলনৰ সময়ত পেষণ-শিলাসমূহ যুঁজোৱা (যুগ্ম) কৰা হৈছে।
न । ते । दूरे । परमा । चित् । रजांसि । अस्य । आ । तु । प्र । याहि । हरिवः । हरिभ्याम् । स्थिराय । वृष्णे । सवनानि । कृतानि । इमाः । युक्ताः । ग्रावाणः । समिधाने । अग्नौ