आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै॑श्वदे॒व ऐ॒न्द्रो॒ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ ऐन्द्रा॒ग्नः स॑ᳪहि॒तोऽधोरा॑मः सावि॒त्रो वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त्पेत्व॑ः
āgneyáḥ kṛṣṇágrīvaḥ sārasvatī́ मेṣī babhrúḥ saumyáḥ pauṣṇáḥ śyāmáḥ śitipṛṣṭhó bārhaspatyáḥ śilpó vaiśvadev́a aindró ’ruṇó mārutáḥ kalmā́ṣa aindrāgnáḥ saṃhitó ’dhorā́maḥ sāvitró vāruṇáḥ kṛṣṇá ékaśitipāt pétvaḥ
অগ্নিৰ (অংশ) কৃষ্ণগ্ৰীৱ; সৰস্বতীৰ মেষী; সোমৰ বভ্ৰু (বাদামী); পূষণৰ শ্যাম (গাঢ়); বৃহস্পতিৰ শিতিপৃষ্ঠ (শ্বেত-পিঠ); বিশ্বদেৱসকলৰ শিল্প (সু-গঠিত); ইন্দ্ৰৰ অৰুণ (ৰুদ্ৰবৰ্ণ); মৰুতসকলৰ কল্মাষ (চিত্ৰবৰ্ণ/দাগযুক্ত); ইন্দ্ৰ-অগ্নিৰ সংহিত (ঘন-সংযুক্ত); সবিতৃৰ অধোরাম (তলত গাঢ়); বৰুণৰ কৃষ্ণ; আৰু একশিতিপাত্ পেত্ব (এটা শ্বেত দাগযুক্ত চিত্ৰবৰ্ণ)।
आ॒ग्ने॒यः । कृ॒ष्ण-ग्री॑वः । सा॒र॒स्व॒ती । मे॒षी । ब॒भ्रुः । सौ॒म्यः । पौ॒ष्णः । श्या॒मः । शि॒ति॒-पृ॒ष्ठः । बा॒र्ह॒स्प॒त्यः । शि॒ल्पः । वै॒श्व॒दे॒वः । ऐ॒न्द्रः । अ॒रु॒णः । मा॒रु॒तः । क॒ल्माषः । ऐ॒न्द्रा॒ग्नः । स॒म्॒हि॒तः । अ॒धो॒रा॑मः । सा॒वि॒त्रः । वा॒रु॒णः । कृ॒ष्णः । एक॑-शि॒ति॒पा॒त् । पे॒त्वः