उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न्
úpa śvāsaya pṛthivī́m utá dyā́ṃ purutrā́ te manutāṃ víṣṭhitaṃ jágat | sá dundubhe sajū́r índreṇa deváir dūrā́d davī́yo ápa sedha śátrūn
পৃথিৱী আৰু দ্যৌক গুঞ্জাই তোল; বহুদূৰ-ব্যাপী স্থিত চলমান জগত তোমাক লক্ষ্য কৰক। হে দুন্দুভি, ইন্দ্ৰ আৰু দেৱসকলৰ সৈতে একমত হৈ, শত্রুসকলক দূৰলৈ—আৰু অধিক দূৰলৈ—হটোৱা।
उप॑ । श्वासय । पृथि॒वीम् । उ॒त । द्याम् । पु॒रु॒त्रा । ते॒ । म॒नु॒ताम् । विष्ठि॑तम् । जग॑त् । सः । दु॒न्दु॒भे । स॒जूः । इन्द्रे॑ण । दे॒वैः । दू॒रात् । दवी॑यः । अप॑ । सेध । शत्रू॑न्