अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि । इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि
agnīṣomayor ujjítiṃ anūjjéṣaṃ vā́jasya mā prasavéna prōhā́mi | agnīṣomau tám apanúdatāṃ yó ’smān dvéṣṭi yáṃ ca vayáṃ dviṣmáḥ vā́jasyainaṃ prasavénāpōhāmi | indrāgnyor ujjítiṃ anūjjéṣaṃ vā́jasya mā prasavéna prōhā́mi | indrāgnī tám apanúdatāṃ yó ’smān dvéṣṭi yáṃ ca vayáṃ dviṣmáḥ vā́jasyainaṃ prasavénāpōhāmi
অগ্নি-সোমৰ প্ৰেৰণাত, বিজয় লাভ কৰি, তাৰ পাছতো মই পুৰস্কাৰ (বাজ) লাভ কৰোঁ; তেওঁলোকৰ প্ৰেৰণাত শক্তি-লাভৰ বাবে মোৰ পৰা সকলো বাধা দূৰ কৰোঁ। অগ্নি আৰু সোমে সেইজনক আঁতৰাওক যি আমাক ঘৃণা কৰে, আৰু যাক আমি ঘৃণা কৰোঁ; পুৰস্কাৰ-প্ৰেৰণাত তাক দূৰ কৰোঁ। ইন্দ্ৰ-অগ্নিৰ প্ৰেৰণাত, বিজয় লাভ কৰি, তাৰ পাছতো মই পুৰস্কাৰ লাভ কৰোঁ; ইন্দ্ৰ আৰু অগ্নিয়ে সেইজনক আঁতৰাওক যি আমাক ঘৃণা কৰে, আৰু যাক আমি ঘৃণা কৰোঁ; পুৰস্কাৰ-প্ৰেৰণাত তাক দূৰ কৰোঁ।
अग्नीषोमयोः । उत्-जितिम् । अनु-उत्-जेṣम् । वाजस्य । मा । प्रसवेन । प्र-ओहामि । अग्नीषोमौ । तम् । अप-नुदताम् । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः । वाजस्य । एनम् । प्रसवेन । अप-ओहामि । इन्द्राग्न्योः । उत्-जितिम् । अनु-उत्-जेṣम् । वाजस्य । मा । प्रसवेन । प्र-ओहामि । इन्द्राग्नी । तम् । अप-नुदताम् । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः । वाजस्य । एनम् । प्रसवेन । अप-ओहामि