आ॒न्त्राणि॑ स्था॒लीर्मधु॒ पिन्व॑माना॒ गुदा॒: पात्रा॑णि सु॒दुघा॒ न धे॒नुः । श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा शची॑भिरास॒न्दी नाभि॑रु॒दरं॒ न मा॒ता
āntrā́ṇi sthālī́r mádhu pínvamānā gudā́ḥ pā́trāṇi sudúghā ná dhenúḥ | śyenásya pátraṃ ná plī́hā śacī́bhir āsandī́ nā́bhir udáraṃ ná mātā́
আন্ত্ৰাণি স্থালীসদৃশ, মধুৰসে পিন্বমান—ফুলে উঠা; গুদাঃ পাত্ৰাণি, সুদুঘা ধেনুৰ ন্যায় উত্তমদুগ্ধদায়িনী। প্লীহা শ্যেনস্য পত্রমিব, শচীভিঃ—মহাশক্তিভিঃ; আসন্দী নাভিসদৃশ, উদরং মাতৃসদৃশ।
आन्त्राणि । स्थालीः । मधु । पिन्वमाना । गुदाः । पात्राणि । सुदुघाः । न । धेनुः । श्येनस्य । पत्रम् । न । प्लीहा । शचीभिः । आसन्दी । नाभिः । उदरम् । न । माता