ब॒ल॒वि॒ज्ञा॒य स्थवि॑र॒: प्रवी॑र॒: सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित्
balavijñā́ya sthaviráḥ pravī́raḥ sáhasvān vājī́ sáhamāna ugráḥ | abhivī́ro abhisátvā sahojā́ jáitram indra rátham ā́ tíṣṭha govít
বল জানি, স্থিৰ, বীৰসমৃদ্ধ; মহাবলী, বিজয়ী, দমনকাৰী, উগ্ৰ। বীৰত্বত অতি-বীৰ, শক্তিত অতি-সত্ত্ব, সহোজ—হে ইন্দ্ৰ, গোৱিত (গো-বিজয়ী), জয়ৰথত আৰোহণ কৰা।
ब॒ल॒-वि॒ज्ञा॒य । स्थवि॑रः । प्र॒-वी॒रः । सह॑स्वान् । वा॒जी । सह॑मानः । उ॒ग्रः । अ॒भि-वी॑रः । अ॒भि-स॑त्वा । स॒हः-ओ॒जाः । जै॑त्रम् । इन्द्र॑ । रथ॑म् । आ । ति॑ष्ठ । गो॒-विद् ।