Yogatattva
कामक्रोधभयं चापि मोहलोभमदो रजः । जन्ममृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥ तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च । एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः ॥
काम । क्रोध । भयम् । च । अपि । मोह । लोभ । मदः । रजः । जन्म । मृत्युः । च । कार्पण्यम् । शोकः । तन्द्रा । क्षुधा । तृषा । तृष्णा । लज्जा । भयम् । दुःखम् । विषादः । हर्षः । एव । च । एभिः । दोषैः । विनिर्मुक्तः । सः । जीवः । केवलः । मतः ।
kāmakrodhabhayaṃ cāpi mohalobhamado rajaḥ | janmamṛtyuś ca kārpaṇyaṃ śokas tandrā kṣudhā tṛṣā || tṛṣṇā lajjā bhayaṃ duḥkhaṃ viṣādo harṣa eva ca | ebhir doṣair vinirmuktaḥ sa jīvaḥ kevalo mataḥ ||
الرغبةُ والغضبُ وكذلك الخوفُ؛ والوهمُ والطمعُ والسُّكرُ وشهوةُ الرَّجَس؛ والولادةُ والموتُ، ومعهما البؤسُ؛ والحزنُ والكسلُ والجوعُ والعطشُ؛ والتعلّقُ والحياءُ والخوفُ والألمُ والكآبةُ والفرحُ أيضًا—مَن تحرّر من هذه العيوب قيل إنّ ذلك الجِيفا «كَيْفَلا»، أي منفردٌ خالصٌ نقيّ.
Desire, anger, and also fear; delusion, greed, intoxication, and passion; birth and death, and also wretchedness; sorrow, lethargy, hunger, thirst; craving, shame, fear, pain, dejection, and joy as well—freed from these faults, that individual self (jīva) is held to be ‘alone’ (kevala), i.e., pure.