Mandukya
ॐ इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥१॥
ॐ । इति । एतत् । अक्षरम् । इदम् । सर्वम् । तस्य । उपव्याख्यानम् । भूतम् । भवत् । भविष्यत् । इति । सर्वम् । ओङ्कारः । एव । यत् । च । अन्यत् । त्रि-काल-अतीतम् । तत् । अपि । ओङ्कारः । एव ॥
oṃ ity etad akṣaram idaṃ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ bhavad bhaviṣyad iti sarvam oṅkāra eva | yac cānyat trikālātītaṃ tad apy oṅkāra eva ||1||
«أوم»—هذا المقطع هو كلُّ هذا. وبيانه: ما كان ماضياً وحاضراً ومستقبلاً—إنّ كلَّ ذلك ليس إلا «أوم». وما كان غير ذلك، متجاوزاً الأزمنة الثلاثة، فذلك أيضاً ليس إلا «أوم».
‘Oṃ’—this syllable is all this. Its further explanation is: whatever is past, present, and future—indeed all that—is only Oṃ. And whatever else is beyond the three times, that too is only Oṃ.