अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शी॒यायु॑र्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे । रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय प्रा॒णो दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे । बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय॒ त्वग्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे । य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय॒ हयो॑ दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे
agnáye tvā máhyaṃ váruṇo dadātu sá ’mṛtatvám aśīyā́yur dātrá edhi máyo máhyaṃ pratigrahītré | rudrā́ya tvā máhyaṃ váruṇo dadātu sá ’mṛtatvám aśīya prāṇó dātrá edhi váyo máhyaṃ pratigrahītré | bṛ́haspátaye tvā máhyaṃ váruṇo dadātu sá ’mṛtatvám aśīya tvág dātrá edhi máyo máhyaṃ pratigrahītré | yamā́ya tvā máhyaṃ váruṇo dadātu sá ’mṛtatvám aśīya háyo dātrá edhi váyo máhyaṃ pratigrahītré
إلى أَغني، لِيُعْطِكَ فَرُونَةُ إليَّ: لَعَلِّي أَنَالُ الخلود. كُنْ أنتَ، لِلْمُعْطِي، حياةً؛ وَلِي، أَنَا الآخِذَ، عافيةً. إلى رُدْرَ، لِيُعْطِكَ فَرُونَةُ إليَّ: لَعَلِّي أَنَالُ الخلود. كُنْ أنتَ، لِلْمُعْطِي، برَانَا (نَفَسَ الحياة)؛ وَلِي، أَنَا الآخِذَ، قوّةً. إلى بْرِهَسْپَتِي، لِيُعْطِكَ فَرُونَةُ إليَّ: لَعَلِّي أَنَالُ الخلود. كُنْ أنتَ، لِلْمُعْطِي، جِلْدًا (تْفَك tvak)؛ وَلِي، أَنَا الآخِذَ، عافيةً. إلى يَمَا، لِيُعْطِكَ فَرُونَةُ إليَّ: لَعَلِّي أَنَالُ الخلود. كُنْ أنتَ، لِلْمُعْطِي، فَرَسًا؛ وَلِي، أَنَا الآخِذَ، قوّةً.
अग्नये । त्वा । मह्यम् । वरुणः । ददातु । सः । अमृत-त्वम् । अशीय । आयुः । दात्रे । एधि । मयः । मह्यम् । प्रतिग्रहीत्रे ॥ रुद्राय । त्वा । मह्यम् । वरुणः । ददातु । सः । अमृत-त्वम् । अशीय । प्राणः । दात्रे । एधि । वयः । मह्यम् । प्रतिग्रहीत्रे ॥ बृहस्पतये । त्वा । मह्यम् । वरुणः । ददातु । सः । अमृत-त्वम् । अशीय । त्वक् । दात्रे । एधि । मयः । मह्यम् । प्रतिग्रहीत्रे ॥ यमाय । त्वा । मह्यम् । वरुणः । ददातु । सः । अमृत-त्वम् । अशीय । हयः । दात्रे । एधि । वयः । मह्यम् । प्रतिग्रहीत्रे