इन्द्रा॑ग्नी॒ आ ग॑तᳪ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता । उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा
índrāgnī́ ā́ gatáṃ sutáṃ gī́rbhir nabhó váreṇyam | asyá pā́taṃ dhiyéṣitā́ | upayā́ma-gṛhīto’sīndrāgníbhyāṃ tváiṣá te yónir indrāgníbhyāṃ tvā
يا إندرا وأغني، تعاليا إلى هنا إلى السُّوما المعصور، المختار كالسّماء الشامخة، مع تراتيلنا؛ اشربا منه، مدفوعَين بالفكر المقدّس. أُخِذتَ بـ«أُپَياما» (Upayāma): لكما، لإندرا وأغني! هذا هو مهدُك/رحمُك (yoni): لكما، لإندرا وأغني!
इन्द्रा-अग्नी । आ । गतम् । सुतम् । गीर्भिः । नभः । वरेण्यम् । अस्य । पातम् । धिया-इषिता । उप-याम-गृहीतः । असि । इन्द्रा-अग्निभ्याम् । त्वा । एषः । ते । योनिः । इन्द्रा-अग्निभ्याम् । त्वा