दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् । उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तं निग्रा॒भ्या॒ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा
devásya tvā savitúḥ prasavé ’śvinor bāhúbhyāṃ pūṣṇó hástābhyām | ā́ dade rā́vā asi gabhīrám imám adhvaráṃ kṛdhí índrāya suṣū́tamam | uttaména pavínor ūrjásvantaṃ mádhumantaṃ páyasvantaṃ ní-grābhyāḥ stha devaśrútaḥ tarpayata mā
بدافع الإله سافيتṛ، وبذراعي الأشفينين، وبيدي بوشن، آخذك. أنت «رَافا»؛ فاجعل هذه الأضحية (يَجْنَا) عميقةً راسخةً، معصورةً على أتمّ وجهٍ لإندرا. وبأعلى مُصفّاة (pavitra) اجعلها مفعمةً بالعُصارة، غنيةً بالحلاوة، غنيةً باللبن. اثبتْ راسخًا، يا مَن سُمِعَ عند الآلهة؛ وأشبِعْنا.
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॑म् । पू॒ष्णः । हस्ता॑भ्याम् । आ । द॒दे॒ । रावा॑ । अ॒सि॒ । ग॒भी॒रम् । इ॒मम् । अ॒ध्व॒रम् । कृ॒धि॒ । इन्द्रा॑य । सु॒षूत॑मम् । उ॒त्त॒मेन॑ । प॒विना॑ । उर्ज॑स्वन्तम् । मधु॑मन्तम् । पय॑स्वन्तम् । नि॒-ग्रा॒भ्याः॒ । स्थ॒ । दे॒व॒श्रुतः॑ । त॒र्पय॑त । मा॒