अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सु॑पिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः । द्यामग्रे॑णास्पृक्ष॒ आन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृᳪहीः
agreṇī́r asi svāveśá unnetṝṇām etásya vittā́d ádhi tvā sthāsyati devás tvā savitā́ mádhvā anaktu supippalā́bhyas tvauṣadhī́bhyaḥ | dyā́m agreṇā́spṛkṣa āntárikṣaṃ mádhyenāprāḥ pṛthivī́m upáreṇādṛṃhīḥ
أنتَ القائدُ في المقدّمة؛ وأنتَ حسنُ الاستقرار؛ وأنتَ الرافعُ بين الرافعين. على هذا الامتدادِ المقيسِ ستقوم. لِيَدْهَنَكَ الإلهُ سافيتṛ بالحلاوة، بعُصارةِ الأعشابِ ذاتِ الثمرِ الحسن. بمقدّمتِكَ المسِ السماء؛ وبوسطِكَ املأِ الأنتاريكṣا؛ وبأعلاك ثبّتِ الأرض.
अ॒ग्रे॒णीः । अ॒सि । स्वा॒-आवे॒शः । उ॒न्ने॒तॄ॒णाम् । ए॒तस्य॑ । वि॒त्ता॒त् । अधि॑ । त्वा । स्था॒स्य॒ति । दे॒वः । त्वा । स॒वि॒ता । मध्वा॑ । अ॒न॒क्तु । सु॒- पि॒प्प॒ला॒भ्यः । त्वा । ओष॑धीभ्यः । द्याम् । अ॒ग्रे॒ण । आ॒स्पृ॒क्षः । आ॒न्तरि॑क्षम् । मध्ये॑न । आ॒प्राः । पृ॒थि॒वीम् । उप॑रेण । आ॒दृ॒ᳪ॒हीः ।