अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तं दा॒शुषे॒ मय॑:
ánu no ’dyā́numatir yajñáṃ devéṣu manyatām | agníś ca havyavā́hano bhávataṃ dāśúṣe máyaḥ ||
لتُقِرَّ أنوماتي اليوم يَجْنَانا بين الآلهة؛ وليكن أَغْنِي، حامل القرابين (هَفْيَفَاهَنَة)، للمتعبِّد مصدرَ رفاهٍ كريم.
अनु । नः । अद्य । अनुमतिः । यज्ञम् । देवेषु । मन्यताम् । अग्निः । च । हव्य-वाहनः । भवतम् । दाशुषे । मयः ।