वे॒नस्तत्प॑श्य॒न्निहि॑तं॒ गुहा॒ सद्यत्र॒ विश्वं॒ भव॒त्येक॑नीडम् । तस्मि॑न्नि॒दᳪ सं च॒ वि चै॑ति॒ सर्व॒ᳪ स ओत॒: प्रोत॑श्च वि॒भूः प्र॒जासु॑
vénaḥ tát paśyán nihítaṃ guhā́ sád yátra víśvaṃ bhávaty ékanīḍam | tásminn idáṃ sáṃ ca ví caíti sárvaṃ sá otáḥ prótaś ca vibhū́ḥ prajā́su
فينا (Vena)، إذ يبصر ما هو مخبوء، موضوعًا في الغار (guhā)؛ حيث يصير الكلّ عشًّا واحدًا. هناك يجتمع هذا «الكلّ» ثم يتفرّق من جديد؛ وهو منسوجٌ فيه ومنسوجٌ خلاله، الشاملُ لكلّ شيء، بين المخلوقات.
वेनः । तत् । पश्यन् । निहितम् । गुहा । सत् । यत्र । विश्वम् । भवति । एक-नीडम् । तस्मिन् । इदम् । सम् । च । वि । च । एति । सर्वम् । सः । ओतः । प्रोतः । च । विभूः । प्रजासु ।