आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रᳪ स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः
ā́ no niyúdbhiḥ śatínībhir adhvaráṃ sahasríṇībhir úpa yāhi yajñám | vā́yo asmín sávane mādayasva yūyáṃ pāta svastíbhiḥ sádā naḥ
أقبِلْ إلينا بفرقِكَ المقرونة، مئاتٍ وألوفاً، إلى اليَجْنَة، إلى القُربان. يا فايُو، في هذا السَّفَنَة (عَصْرِ السُّوما) ابتهِج؛ وأنتم احفظونا دائماً ببركاتِ السلامة.
आ । नः । नियुद्भिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । यज्ञम् । वायो । अस्मिन् । सवने । मादयस्व । यूयम् । पात । स्वस्तिभिः । सदा । नः