समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या । सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः
samā́s tvāgne ṛtávo vardhayantu saṃvatsarā́ ṛ́ṣayo yā́ni satyā́ | saṃ divyéna dīdihi rocanéna víśvā ā́ bhāhi pradíśaś cátasraḥ ||
لِتُزِدْكَ السِّنُونَ يا أغني، ولْتُزِدْكَ الفُصُولُ نُمُوًّا؛ ولْتَزِدْ دَوْرَاتُ السَّنَةِ، والرِّشِيّونَ، تِلكَ الحَقَائِقَ الصَّادِقَةَ. تَلَأْلَأْ مُتَّحِدًا بِالضِّيَاءِ السَّمَاوِيّ؛ وأَضِئْ جَمِيعَ الجِهَاتِ الأَرْبَع.
समाः । त्वा । अग्ने । ऋतवः । वर्धयन्तु । संवत्सराः । ऋषयः । यानि । सत्यानि । सम् । दिव्येन । दीदिहि । रोचनेन । विश्वाः । आ । भाहि । प्रदिशः । चतस्रः ।