कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्याः श्वे॒ता वा॑य॒व्या अवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो॒ दे॒वानां॒ पत्नी॑भ्यः
kṛṣṇagrī́vā āgneyā́ babhrávaḥ saumyā́ḥ śvetā́ vāyavyā́ avijñātā́ adítyai sárūpā dhātré vatsatáryo devā́nāṃ pátnībhyaḥ
ذواتُ الأعناقِ السوداءِ لِأَغْنِي؛ والسمْرُ لِسُوما؛ والبيضُ لِفايُو؛ وما لم يُعْرَفْ فَلِأَدِيتِي؛ وما كانَ مُتَشابِهَ الصُّورَةِ فَلِدْهاتْرِ؛ وأمّا الإناثُ الحواملُ بالعِجْلِ فَلِزَوْجاتِ الآلِهَةِ.
कृष्ण-ग्रीवाः । आग्नेयाः । बभ्रवः । सौम्याः । श्वेताः । वायव्याः । अविज्ञाताः । अदित्यै । सरूपाः । धात्रे । वत्स-तर्यः । देवानाम् । पत्नीभ्यः ।