वन॒स्पति॒रव॑सृष्टो॒ न पाशै॒स्त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः । इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑
vanaspátir avasṛ́ṣṭo ná pā́śais tmanýā samáñjañ chamitā́ ná deváḥ | índrasya havyáir jáṭharaṃ pṛṇānáḥ svádāti yajñáṃ mádhunā ghṛténa
سَيِّدُ الشَّجَرِ (فاناسْبَتي)، كأنَّه أُطلِقَ من القيود، يَمسَحُ نفسَهُ بالدُّهن—كالشَّامِتْرِ الإلهي؛ يملأُ بطنَ إندرا بالقرابين (هَفْيا)، فيجعلُ اليَجْنَا مُستَساغًا، بحلاوةٍ وبالسَّمْنِ المُصَفّى (غِهْرْتا).
वनस्पतिः । अवसृष्टः । न । पाशैः । त्मन्या । सम्-अञ्जन् । शमिता । न । देवः । इन्द्रस्य । हव्यैः । जठरम् । पृणानः । स्वदाति । यज्ञम् । मधुना । घृतेन