यत्रेन्द्र॑श्च वा॒युश्च॑ स॒म्यञ्चो॒ चर॑तः स॒ह । तँल्लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ से॒दिर्न वि॒द्यते॑
yátréndraś ca vāyúś ca samyáñco cárataḥ sahá | táṃ lokáṃ púṇyaṃ prajñéṣaṃ yátra sedír ná vidyáte
حيثُ يسيرُ إندرا وفايو معًا، متوافقَين،—ذلك هو العالَمُ المبارك، العالَمُ الذي ينبغي أن يُعرَفَ معرفةً صحيحة، حيثُ لا يُوجَدُ استقرارٌ ولا جمود.
यत्र॑ । इन्द्रः॑ । च॑ । वा॒युः । च॑ । स॒म्यञ्चः॑ । चर॑तः । स॒ह । तम् । लो॒कम् । पुण्य॑म् । प्रज्ञे॑षम् । यत्र॑ । से॒दिः । न । वि॒द्यते॑