ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु ण॑: स॒दृक्षा॑स॒: प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ सम्मि॑तासो नो अ॒द्य सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्
īdṛ́kṣāsa etā́dṛkṣāsa ū́ ṣú naḥ sadṛ́kṣāsaḥ práti-sadṛkṣāsa etána | mitā́saś ca sámmītāso no adyá sá-bharaso maruto yajñé asmín ||
كما أنتم، كذلك أنتم—نعم، كونوا لنا على مثالٍ مماثل، على مماثلةٍ مُجيبة: هلمّوا إلى هنا! يا مَروت، يا من أنتم مُقَدَّرون ومُحكَمُو التقدير، ذوو قوّةٍ مجتمعة، كونوا اليوم في هذا اليَجْنَا لنا.
ईदृक्-आसः । एतादृक्-आसः । ऊँ इति । सु । नः । सदृक्-आसः । प्रति-सदृक्षासः । एतन । मितासः च । सम्-मितासः । नः । अद्य । स-भरसः । मरुतः । यज्ञे । अस्मिन् ।