उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो निहि॑त॒: पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑
ukṣā́ samudró aruṇáḥ supárṇaḥ pū́rvasya yónim pitúr ā́ viveśa | mádhye divó níhitaḥ pṛśnír áśmā ví cakrame rájasas pā́ty ántau
الثورُ، والمحيطُ، الأحمرُ، ذو الجناحين الحسنين، قد دخل الرحمَ الأول للأب. وفي وسط السماء وُضِع الحجرُ المُرَقَّط؛ وقد خطا إلى الأمام وحرس طرفَي الأقاليم.
उ॒क्षा । स॒मु॒द्रः । अ॒रु॒णः । सु॒प॒र्णः । पूर्व॑स्य । योनिम्॑ । पि॒तुः । आ । वि॒वेश । मध्ये॑ । दि॒वः । निहि॑तः । पृश्निः॑ । अ॒श्मा । वि । च॒क्रमे । रज॑सः । पा॒ति । अन्तौ॑ ।