समि॑द्धे अ॒ग्नावधि॑ मामहा॒न उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तः । त॒प्तं घ॒र्मं प॑रि॒गृह्या॑यजन्तो॒र्जा यद्य॒ज्ञमय॑जन्त दे॒वाः
samíd-dhe agnā́v ádhi māmāhāná ukthápatra ī́ḍyo gṛbhītáḥ | taptáṃ gharmáṃ parigṛ́hyāyajanto ūrjā́ yád yajñám ayajanta devā́ḥ ||
على النارِ المُوقَدةِ—المُمَجَّدةِ، ذاتِ أجنحةِ التراتيل، الجديرةِ بالحمد—يُؤخَذُ. وبعد أن حملوا الغَرْمَا (Gharma) المُسَخَّنَ، قرّبوا القربانَ طلبًا للقوّة، حين أقامَتِ الآلهةُ اليَجْنَا.
समिद्धे । अग्नौ । अधि । मामहानः । उक्थ-पत्रः । ईड्यः । गृभीतः । तप्तम् । घर्मम् । परि-गृह्य । अयजन्त । ऊर्जाः । यत् । यज्ञम् । अयजन्त । देवाः ।