नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ । अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व
námas te hárase śocíṣe námas te astv arcíṣe | anyā́ṃs te asmát tapantu hetáyaḥ pāvakó asmábhyaṃ śivó bhava
سلامٌ لك لقوّتك؛ سلامٌ لك لِلَهِيبِكَ؛ سلامٌ لك لِتَوَهُّجِكَ. فلتُحْرِقْ سهامُكَ المُحْرِقَةُ الآخرينَ بعيدًا عنّا. يا بافاكا (Pāvaka) المُطهِّر، كُنْ لنا مُبارَكًا مُسَالِمًا.
नमः । ते । हरसे । शोचिषे । नमः । ते । अस्तु । अर्चिषे । अन्यान् । ते । अस्मत् । तपन्तु । हेतयः । पावकः । अस्मभ्यम् । शिवः । भव ।