नम॒: श्वभ्य॒: श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च
námaḥ śvá-bhyaḥ śvápatibhyaś ca vo námo námo bhavā́ya ca rudrā́ya ca námaḥ śárvāya ca paśupátaye ca námo nī́lagrīvāya ca śitikáṇṭhāya ca
السُّجودُ والتَّحيةُ للكلابِ، ولِسادةِ الكلابِ—فلكم السُّجودُ والتَّحيةُ! السُّجودُ والتَّحيةُ لِبهافا ولِرودرا! السُّجودُ والتَّحيةُ لِشارفا ولِباشوبَتي! السُّجودُ والتَّحيةُ لِذِي العُنُقِ الأزرقِ ولِذِي الحَلقِ الأبيضِ!
नमः । श्वभ्यः । श्वपतिभ्यः । च । वः । नमः । नमः । भवाय । च । रुद्राय । च । नमः । शर्वाय । च । पशुपतये । च । नमः । नीलग्रीवाय । च । शितिकण्ठाय । च ।