एव॒श्छन्दो॒ वरि॑व॒श्छन्द॑: श॒म्भूश्छन्द॑: परि॒भूश्छन्द॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्द॒: सिन्धु॒श्छन्द॑: समु॒द्रश्छन्द॑:सरि॒रं छन्द॑: क॒कुप्छन्द॑स्त्रिक॒कुप्छन्द॑: का॒व्यं छन्दो॒ अङ्कु॒॒पं छन्दो॒ ऽक्षर॑पङ्क्ति॒श्छन्द॑: प॒दप॑ङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्द॑: क्षु॒रो भ्रज॒श्छन्द॑:
eváś chándo várivaś chándaḥ śambhū́ś chándaḥ paribhū́ś chánda ā́cchaś chándo mánaś chándo vyácaś chándaḥ síndhuś chándaḥ samudráś chándaḥ saríraṁ chándaḥ kakúp chándas trikakúp chándaḥ kā́vyaṁ chándo aṅkúpaṁ chándo ’kṣarápaṅktiś chándaḥ padápaṅktiś chándo vistā́rapaṅktiś chándaḥ kṣuró bhrájaś chándaḥ
«إڤا» هو الوزن؛ «ڤَرِڤَس» هو الوزن؛ «شَمْبهو» هو الوزن؛ «پَرِبهو» هو الوزن؛ «آتْشّا» هو الوزن؛ «مَنَس» هو الوزن؛ «ڤْيَچَس» هو الوزن؛ «سِنْدهو» هو الوزن؛ «سَمُدْرَ» هو الوزن؛ «سَرِيرَ» هو الوزن؛ «كَكُپ» هو الوزن؛ «تْرِي-كَكُپ» هو الوزن؛ «كاڤْيَ» هو الوزن؛ «أَنْكُپَ» هو الوزن؛ «صفُّ المقاطع» (أكشَرا-پَنْكْتي) هو الوزن؛ «صفُّ الأقدام/الأشطار» (پَدَ-پَنْكْتي) هو الوزن؛ «صفُّ الامتداد» (ڤِسْتارا-پَنْكْتي) هو الوزن؛ «الموسى» (كْشُرَ) و«البريق» (بْهْرَجَ) هما الوزن.
एवः । छन्दः । वरिवः । छन्दः । शम्भूः । छन्दः । परिभूः । छन्दः । आच्छः । छन्दः । मनः । छन्दः । व्यचः । छन्दः । सिन्धुः । छन्दः । समुद्रः । छन्दः । सरिरम् । छन्दः । ककुप् । छन्दः । त्रिककुप् । छन्दः । काव्यम् । छन्दः । अङ्कुपम् । छन्दः । अक्षर-पङ्क्तिः । छन्दः । पद-पङ्क्तिः । छन्दः । विस्तार-पङ्क्तिः । छन्दः । क्षुरः । भ्रजः । छन्दः