अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानीग्राम॒ण्यौ॒ । मे॒न॒का च॑ सहज॒न्या चा॑प्स॒रसौ॑ यातुधा॒ना हे॒ती रक्षा॑ᳪसि॒ प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः
ayaṁ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānīgrāmaṇyau | menakā ca sahajanyā cāpsarasau yātudhānā heti rakṣāṁsi prahetiḥ tebhyo namo astu te no ’vantu te no mr̥ḍayantu te yaṁ dviṣmo yaś ca no dveṣṭi tameṣāṁ jambhe dadhmaḥ
هذا، إلى جهة الجنوب، هو فيشْفاكَرْمَن؛ وله رَثَسْفَنَة ورَثِهْچِتْرَة، القائدان: قائدُ الجيش ورئيسُ العشيرة. ومِنَكَا وسَهَجَنْيَا هما الأبسارتان؛ والياتودهانا هي الأنعام؛ والسلاح له—والرَّكْشَسَة، والسلاحُ المُقذوف. لهم السجودُ والتعظيم: ليحمونا، وليترأفوا بنا؛ ومن نبغضه ومن يبغضنا—نضعه في فكوكهم.
अ॒यम् । द॑क्षि॒णाः । वि॒श्वक॑र्मा । तस्य॑ । रथ-स्व॒नः । च । रथे॑-चित्रः । च । सेनानी-ग्राम॒ण्यौ॒ । मे॒न॒का । च । सह-ज॒न्या । च । अ॒प्स॒रसौ॑ । यातु-धा॒नाः । हे॒तिः । रक्षाᳪसि॑ । प्र-हे॑तिः । तेभ्यः॑ । नमः॑ । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्वि॒ष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे॑ । दध्मः